Tumgik
hindumantramala · 4 years
Video
MANGAL KE 21 NAAM मंगल के यह 21 नाम
0 notes
hindumantramala · 4 years
Link
0 notes
hindumantramala · 4 years
Link
hindu mantra mala pinterest
0 notes
hindumantramala · 4 years
Link
0 notes
hindumantramala · 4 years
Link
0 notes
hindumantramala · 4 years
Video
Ganesh Dwadash Naam Stotra
https://hindumantramala.blogspot.com/2020/05/ganesh-dwadash-naam-stotra.html https://www.tumblr.com/blog/blogloginworld https://www.facebook.com/Hindu-mantra-mala-10205 https://www.pinterest.co.uk/pin/729160995908588660/ https://twitter.com/hindumantramala
0 notes
hindumantramala · 4 years
Video
youtube
DOING WELL
0 notes
hindumantramala · 4 years
Video
youtube
HOW TO BE MENTALLY STRONG
0 notes
hindumantramala · 4 years
Video
youtube
HOW TO BE MENTALLY STRONG
0 notes
hindumantramala · 4 years
Photo
Tumblr media
1 note · View note
hindumantramala · 4 years
Link
got a business skill
come join and share it on 
www.riichest.com
0 notes
hindumantramala · 4 years
Photo
Tumblr media
Got business skill Join www.riichest.com https://www.instagram.com/p/B_ZN8RXl0G5/?igshid=hbmpgbqrvlhd
0 notes
hindumantramala · 4 years
Photo
Tumblr media
Got business skill Join www.riichest.com https://www.instagram.com/p/B_ZN3i7FIN0/?igshid=16m2w5v8i11wl
0 notes
hindumantramala · 4 years
Quote
श्री  विष्णु  अष्टोत्तर  सत  नाम  स्तोत्रं SREE VISHNU ASHTOTTARA SATA NAMA STOTRAM श्री  विष्णु  अष्टोत्तर  सत  नाम  स्तोत्रं SREE VISHNU ASHTOTTARA SATA NAMA STOTRAM || श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् || वासुदेवं हृषीकेशं वामनं जलशायिनम् | जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् || 1 || वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् | अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् || 2 || नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् | गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् || 3 || वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् | चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् || 4 || वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् | त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दकेश्वरम् || 5 || रामं रामं हयग्रीवं भीमं रॊउद्रं भवोद्भवम् | श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् || 6 || दामोदरं दमोपेतं केशवं केशिसूदनम् | वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम् || 7 || हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् | सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् || 8 || हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् | मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् || 9 || ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् | सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् || 10 || ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् | योगीशं योगनिष्णातं योगिसंयोगरूपिणम् || 11 || ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् | इति नामशतं दिव्यं वैष्णवं खलु पापहम् || 12 || व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् | यः पठेत् प��रातरुत्थाय स भवेद् वैष्णवो नरः || 13 || सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् | चान्द्रायणसहस्राणि कन्यादानशतानि च || 14 || गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः | अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः || 15 || || इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ||
http://hindumantramala.blogspot.com/2020/04/sree-vishnu-ashtottara-sata-nama-stotram.html
0 notes
hindumantramala · 4 years
Quote
अनन्थ  पद्मनाभ  स्वंय  अष्टोत्तर  सत  नामावली ANANTHA PADMANABHA SWAMY ASHTOTTARA SATA NAMAVALI अनन्थ  पद्मनाभ  स्वंय  अष्टोत्तर  सत  नामावली ANANTHA PADMANABHA SWAMY ASHTOTTARA SATA NAMAVALI  ॐ कृष्णाय नमः ॐ कमलनाथाय नमः ॐ वासुदेवाय नमः ॐ सनातनाय नमः ॐ वसुदेवात्मजाय नमः ॐ पुण्याय नमः ॐ लीलामानुष विग्रहाय नमः ॐ वत्स कौस्तुभधराय नमः ॐ यशोदावत्सलाय नमः ॐ हरिये नमः || 10 || ॐ चतुर्भुजात्त सक्रासिगदा नमः ॐ शङ्खाम्बुजायुधायुजा नमः ॐ देवकीनन्दनाय नमः ॐ श्रीशाय नमः ॐ नन्दगोपप्रियात्मजाय नमः ॐ यमुनावेद संहारिणे नमः ॐ बलभद्र प्रियानुजाय नमः ॐ पूतनाजीवित हराय नमः ॐ शकटासुर भञ्जनाय नमः ॐ नन्दव्रजजनानन्दिने नमः || 20 || ॐ सच्चिदानन्द विग्रहाय नमः ॐ नवनीत विलिप्ताङ्गाय नमः ॐ अनघाय नमः ॐ नवनीतहराय नमः ॐ मुचुकुन्द प्रसादकाय नमः ॐ षोडशस्त्री सहस्रेशाय नमः ॐ त्रिभङ्गिने नमः ॐ मधुराक्रुतये नमः ॐ शुकवागमृताब्दीन्दवे नमः || 30 || ॐ गोविन्दाय नमः ॐ योगिनाम्पतये नमः ॐ वत्सवाटिचराय नमः ॐ अनन्तय नमः ॐ धेनुकासुर भञ्जनाय नमः ॐ तृणीकृत तृणावर्ताय नमः ॐ यमलार्जुन भञ्जनाय नमः ॐ उत्तलोत्तालभेत्रे नमः ॐ तमालश्यामला कृतिये नमः ॐ गोपगोपीश्वराय नमः ॐ योगिने नमः ॐ कोटिसूर्य समप्रभाय नमः || 40 || ॐ इलापतये नमः ॐ परञ्ज्योतिषे नमः ॐ यादवेन्द्राय नमः ॐ यदूद्वहाय नमः ॐ वनमालिने नमः ॐ पीतवसने नमः ॐ पारिजातापहरकाय नमः ॐ गोवर्थनाच लोद्दर्त्रे नमः ॐ गोपालाय नमः ॐ सर्वपालकाय नमः || 50 || ॐ अजाय नमः ॐ निरञ्जनाय नमः ॐ कामजनकाय नमः ॐ कञ्जलोचनाय नमः ॐ मधुघ्ने नमः ॐ मधुरानाथाय नमः ॐ द्वारकानायकाय नमः ॐ बलिने नमः ॐ बृन्दावनान्त सञ्चारिणे नमः || 60 || तुलसीदामभूषनाय नमः ॐ शमन्तकमणेर्हर्त्रे नमः ॐ नरनारयणात्मकाय नमः ॐ कुज्ज कृष्णाम्बरधराय नमः ॐ मायिने नमः ॐ परम पुरुषाय नमः ॐ मुष्टिकासुर चाणूर नमः ॐ मल्लयुद्दविशारदाय नमः ॐ संसारवैरिणे नमः ॐ कंसारये नमः ॐ मुरारये नमः || 70 || ॐ नरकान्तकाय नमः ॐ क्रिष्णाव्यसन कर्शकाय नमः ॐ शिशुपालशिर च्चेत्रे नमः ॐ दुर्योदन कुलान्तकाय नमः ॐ विदुराक्रूरवरदाय नमः ॐ विश्वरूपप्रदर्शकाय नमः ॐ सत्यवाचे नमः ॐ सत्यसङ्कल्पाय नमः ॐ सत्यभामारताय नमः ॐ जयिने नमः ॐ सुभद्रा पूर्वजाय नमः || 80 || ॐ विष्णवे नमः ॐ भीष्ममुक्ति प्रदायकाय नमः ॐ जगद्गुरवे नमः ॐ जगन्नाथाय नमः ॐ वेणुनाद विशारदाय नमः ॐ वृषभासुर विद्वंसिने नमः ॐ बाणासुर करान्तकृते नमः ॐ युधिष्टिर प्रतिष्टात्रे नमः ॐ बर्हिबर्हा वतंसकाय नमः ॐ पार्धसारदिये नमः || 90 || ॐ अव्यक्ताय नमः ॐ गीतामृत महॊधधिये नमः ॐ कालीय फणिमाणिक्यरं नमः ॐ जित श्रीपदाम्बुजाय नमः ॐ दामोदराय नमः ॐ यज्ञ भोक्त्रे नमः ॐ दानवेन्द्र विनाशकाय नमः ॐ नारायणाय नमः ॐ परब्रह्मणे नमः ॐ पन्नगाशन वाहनाय नमः || 100 || ॐ जलक्रीडा समासक्त गोपी वस्त्रापहर काय नमः ॐ पुण्य श्लोकाय नमः ॐ तीर्ध कृते नमः ॐ वेद वेद्याय नमः ॐ दयानिधये नमः ॐ सर्व तीर्धात्मकाय नमः ॐ सर्वग्र हरूपिणे नमः ॐ ॐ परात्पराय नमः || 108 || श्री अनन्त पद्मनाभ अष्टोत्तर शतनामावलि सम्पूर्णम्
http://hindumantramala.blogspot.com/2020/04/anantha-padmanabha-swamy-ashtottara.html
0 notes
hindumantramala · 4 years
Quote
नारायण  कवचं NARAYANA KAVACHAM नारायण  कवचं NARAYANA KAVACHAM अङ्गन्यासः ॐ ॐ पादयोः नमः |ॐ नं जानुनोः नमः |ॐ मों ऊर्वोः नमः |ॐ नां उदरे नमः |                    ॐ रां हृदि नमः |ॐ यं उरसि नमः |ॐ णां मुखे नमः |ॐ यं शिरसि नमः | करन्यासः ॐ ॐ दक्षिणतर्जन्याम् नमः | ॐ नं दक्षिणमध्यमायाम् नमः | ॐ मों दक्षिणानामिकायाम् नमः | ॐ भं दक्षिणकनिष्ठिकायाम् नमः | ॐ गं वामकनिष्ठिकायाम् नमः | ॐ वं वामानिकायाम् नमः | ॐ तें वाममध्यमायाम् नमः | ॐ वां वामतर्जन्याम् नमः | ॐ सुं दक्षिणाङ्गुष्ठोर्ध्वपर्वणि नमः | ॐ दें दक्षिणाङ्गुष्ठाधः पर्वणि नमः | ॐ वां वामाङ्गुष्ठोर्ध्वपर्वणि नमः | ॐ यं वामाङ्गुष्ठाधः पर्वणि नमः | विष्णुषडक्षरन्यासः% ॐ ॐ हृदये नमः | ॐ विं मूर्ध्नै नमः | ॐ षं भ्रुर्वोर्मध्ये नमः | ॐ णं शिखायाम् नमः | ॐ वें नेत्रयोः नमः | ॐ नं सर्वसन्धिषु नमः | ॐ मः प्राच्याम् अस्त्राय फट् | ॐ मः आग्नेय्याम् अस्त्राय फट् | ॐ मः दक्षिणस्याम् अस्त्राय फट् | ॐ मः नैऋत्ये अस्त्राय फट् | ॐ मः प्रतीच्याम् अस्त्राय फट् | ॐ मः वायव्ये अस्त्राय फट् | ॐ मः उदीच्याम् अस्त्राय फट् | ॐ मः ऐशान्याम् अस्त्राय फट् | ॐ मः ऊर्ध्वायाम् अस्त्राय फट् | ॐ मः अधरायाम् अस्त्राय फट् | श्री हरिः अथ श्रीनारायणकवच ||राजोवाच|| यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्| क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्||1|| भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्| यथास्स्ततायिनः शत्रून् येन गुप्तोस्जयन्मृधे||2|| ||श्रीशुक उवाच|| वृतः पुरोहितोस्त्वाष्ट्रो महेन्द्रायानुपृच्छते| नारायणाख्यं वर्माह तदिहैकमनाः शृणु||3|| विश्वरूप उवाचधौताङ्घ्रिपाणिराचम्य सपवित्र उदङ् मुखः| कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः||4|| नारायणमयं वर्म संनह्येद् भय आगते| पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि||5|| मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत्| ॐ नमो नारायणायेति विपर्ययमथापि वा||6|| करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया| प्रणवादियकारन्तमङ्��ुल्यङ्गुष्ठपर्वसु||7|| न्यसेद् हृदय ओङ्कारं विकारमनु मूर्धनि| षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्||8|| वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु| मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः||9|| सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्| ॐ विष्णवे नम इति ||10|| आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम्| विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत ||11|| ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे| दरारिचर्मासिगदेषुचापाशान् दधानोस्ष्टगुणोस्ष्टबाहुः ||12|| जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात्| स्थलेषु मायावटुवामनोस्व्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ||13|| दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयुथपारिः| विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ||14|| रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः| रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोस्व्याद् भरताग्रजोस्स्मान् ||15|| मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्| दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ||16|| सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात्| देवर्षिवर्यः पुरूषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ||17|| धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा| यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ||18|| द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात्| कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः ||19|| मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः| नारायण प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ||20|| देवोस्पराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्| दोषे हृषीकेश उतार्धरात्रे निशीथ एकोस्वतु पद्मनाभः ||21|| श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः| दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ||22|| चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम्| दन्दग्धि दन्दग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः ||23|| गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि| कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ||24|| त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन्| दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ||25|| त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि| चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ||26|| यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च| सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ||27|| सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात्| प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयः प्रतीपकाः ||28|| गरूड्क्षो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः| रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ||29|| सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः| बुद्धिन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः ||30|| यथा हि भगवानेव वस्तुतः सद्सच्च यत्| सत्यनानेन नः सर्वे यान्तु नाशमुपाद्रवाः ||31|| यथैकात्म्यानुभावानां विकल्परहितः स्वयम्| भूषणायुद्धलिङ्गाख्या धत्ते शक्तीः स्वमायया ||32|| तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः| पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ||33 विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः| प्रहापयंल्लोकभयं स्वनेन ग्रस्तसमस्ततेजाः ||34|| मघवन्निदमाख्यातं वर्म नारयणात्मकम्| विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ||35|| एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा| पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ||36|| न कुतश्चित भयं तस्य विद्यां धारयतो भवेत्| राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ||37|| इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः| योगधारणया स्वाङ्गं जहौ स मरूधन्वनि ||38|| तस्योपरि विमानेन गन्धर्वपतिरेकदा| ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः ||39|| गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः| स वालखिल्यवचनादस्थीन्यादाय विस्मितः| प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ||40|| ||श्रीशुक उवाच|| य इदं शृणुयात् काले यो धारयति चादृतः| तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ||41|| एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः| त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्यऽमृधेसुरान् ||42|| ||इति श्रीनारायणकवचं सम्पूर्णम्|| ( श्रीमद्भागवत स्कन्ध 6,अ| 8 )
http://hindumantramala.blogspot.com/2020/04/narayana-kavacham.html
0 notes
hindumantramala · 4 years
Quote
श्री राम  मन्गलससनं SRI RAMA MANGALASASANAM श्री राम  मन्गलससनं SRI RAMA MANGALASASANAM मङ्गलं कौसलेन्द्राय महनीय गुणात्मने | चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलं || 1 || वेदवेदान्त वेद्याय मेघश्यामल मूर्तये | पुंसां मोहन रूपाय पुण्यश्लोकाय मङ्गलं || 2 || विश्वामित्रान्तरङ्गाय मिथिला नगरी पते | भाग्यानां परिपाकाय भव्यरूपाय मङ्गलं || 3 || पितृभक्ताय सततं भातृभिः सह सीतया | नन्दिताखिल लोकाय रामभद्राय मङ्गलं || 4 || त्यक्त साकेत वासाय चित्रकूट विहारिणे | सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलं || 5 || सौमित्रिणाच जानक्याचाप बाणासि धारिणे | संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलं || 6 || दण्डकारण्य वासाय खरदूषण शत्रवे | गृध्रराजाय भक्ताय मुक्ति दायास्तु मङ्गलं || 7 || सादरं शबरी दत्त फलमूल भिलाषिणे | सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मङ्गलं || 8 || हनुन्त्समवेताय हरीशाभीष्ट दायिने | वालि प्रमधनायास्तु महाधीराय मङ्गलं || 9 || श्रीमते रघुवीराय सेतूल्लङ्घित सिन्धवे | जितराक्षस राजाय रणधीराय मङ्गलं || 10 || विभीषणकृते प्रीत्या लङ्काभीष्ट प्रदायिने | सर्वलो��� शरण्याय श्रीराघवाय मङ्गलं || 11 || आगत्यनगरीं दिव्यामभिषिक्ताय सीतया | राजाधिराजराजाय रामभद्राय मङ्गलं || 12 || भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने | जानकी प्राणनाथाय रघुनाथाय मङ्गलं || 13 || श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे | महते मम नाथाय रघुनाथाय मङ्गलं || 14 || मङ्गलाशासन परैर्मदाचार्य पुरोगमैः | सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मङ्गलं || 15 || रम्यजा मातृ मुनिना मङ्गलाशासनं कृतं | त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ||
http://hindumantramala.blogspot.com/2020/04/sri-rama-mangalasasanam.html
0 notes